भजन & स्तुति
॥ ध्यानम् ॥
श्वेतांगम् श्वेतवस्त्रं सितकुसुमगणै: पूजितं श्वेतगंधे:
क्षीराब्धौ रत्नदीपै: सुरनरतिलकं रत्नसिंहासनस्थम्
दोर्भि: पाशाकुशाब्जा भयवरदधतं चन्द्रमौलिं त्रिनेत्रं
ध्याये शान्त्यर्थमीशं गणपतिममलं श्रीसमेतं प्रसन्नम्
------ : -------
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलांगं परशुमृगवराभीतिहस्तं प्रसन्नम्
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विष्ववन्द्यं निखिलभयहरं पंचवक्त्रं त्रिनेत्रम्
------ : -------
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम्
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुभवभयहरं सर्वलोकैकनाथम्
------ : -------
त्वमेव माता च पिता त्वमेव,
त्वमेव बन्धुश्च सखा त्वमेव
त्वमेव विद्या द्रविणं त्वमेव,
त्वमेव सर्वं मम देवदेव
------ : -------
Next