भजन & स्तुति
॥ स्तवन ॥
सुमुखश्चैकदन्तष्च कपिलोे गजकर्णक:
लम्बोदरश्च विकटो विघ्ननाशो विनायक:॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजानन:
द्वादशैतानि नामानि य: पठेच्छृणुयादपि॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा
संग्रामे संकटे चैव विघ्नस्तस्य न जायते॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
अभीप्सितार्थसिद्धयर्थं पूजितो य: सुरासुरै:
सर्वविघ्नहरस्तस्मै गणाधिपतये नम:॥
सर्वमंगलमांगल्ये! शिवे! सर्वार्थसाधिके
शरण्ये त्र्यम्बके! गौरि नारायणि नमोस्तुते॥
सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम्
येषां हृदिस्थो भगवान् मंगलायस्तनो हरि:॥
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव
विद्याबलं देवबलं तदेव लक्ष्मीपते तेंघ्रियुगं स्मरामि॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजया:
येषामिन्दीवरश्यामो हृदयस्थो जनार्दन:॥
यत्र योगेष्वर: कृष्णो यत्र पार्थो धनुर्धर:
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥
अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥
स्मृते: सकलकल्याणं भाजनं यत्र जायते
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम्॥
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
विश्वेशं माधवं ढुण्ढिं दण्डपाणिं च भैरवम्
वन्दे काशीं गुहां गंगां भवानीं मणिकर्णिकाम्॥
सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वरा:
देवा दिशन्तु न: सिद्धिं ब्रह्मेशानजनार्दन:॥
विनायकं गुरुं भानुं ब्रह्मा विष्णु महेश्वरान्
सरस्वती प्रणम्यादौ सर्व कार्येषु सर्वदा॥
------ : -------
PrevNext