भजन & स्तुति
॥ शिव महिम्न स्तोत्र ॥
गजाननं भूतगणाधि सेवितं,
कपित्थ जम्बू फल चारुभक्षणम्।
उमासुतं शोकविनाशकारकम्,
नमामि विघ्नेश्वरपादपंकजम्॥
------ श्री पुष्पदन्त उवाच ------
महिम्न: पारं ते परमविदुषो यद्यसदृशी
स्तुतिब्र्रह्मादीनामपि तदवसन्नास्त्वयि गिर:।
अथावाच्य: सर्व: स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवाद: परिकर:
॥ 1 ॥
अतीत: पन्थानं तव च महिमा वाङ्मनसयो:
रतद्व्यावृत्या यं चकितमभिधते श्रुतिरपि।
स कस्य स्तोतव्य: कतिविधगुण: कस्य विषय:
पदे त्वर्वाचीने पतति न मन: कस्य न वच:
॥ 2 ॥
मधुस्फीता वाच: परमममृतं निर्मितवत-
स्तव ब्रह्मान् किं वागपि सुरगुरोर्विस्मयपदम्।
मम त्वेतां वाणीं गुणकथनपुण्येन भवत:
पुनामीत्यर्थेSस्मिन् पुरमथन बुद्धिर्व्यवसिता
॥ 3 ॥
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तुव्यस्तं तिसृषु गुणभिन्नासु तनुषु।
अभव्यानामस्मिन् वरद रमणीयावरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जड़धिय:
॥ 4 ॥
किमीह: किं काय: स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च।
अतक्र्यैश्वर्ये त्व य्यनवसरदुश्स्थो हतधिय:
कुतर्कोSयं कांश्चिन्मुखरति मोहाय जगत:
॥ 5 ॥
अजन्मानो लोका: किमवयववन्तोSपि जगता-
मधिश्ठातारं किं भवविधिरनादृत्य भवति।
अनीशो वा कुर्याद्भुवनजनने क: परिकरो
यतो मन्दास्त्वां प्र त्यमरवर संशेरत इमे
॥ 6 ॥
त्रयी सांख्यं योग: पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमद: पथ्यमिति च।
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव
॥ 7 ॥
महोक्ष: खट्वांगं परशुरजिनं भस्म फणिन:
कपालं चेतीयत्तव वरद तन्त्रोपकरणम्।
सुरास्तां तामृद्धिं दधति च भवद्भू्रप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति
॥ 8 ॥
धु्रवं कश्चित् सर्वं सकलमपरस्त्वधु्रवमिदं
परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये।
समस्तेSप्येतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवञ्जिह्नेमि त्वां न खलु ननु धृष्टा मुखरता
॥ 9 ॥
तवैश्वर्यं यत्नाद् द्यदुपरि विरंचि हरिरध:
परिच्छेतुं यातावनलमनलस्कन्धवपुष:।
ततो भक्तिश्रद्धाभरगुरुगॄणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृतिर्न फलति
॥ 10 ॥
अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद् बाहूनभृत रणकण्डूपरवषान्।
शिर: पद्मश्रेणीरचितचरणाम्भोरुहबले:
स्थिरायास्त्वभ्क्तेस्त्रिपुरहर विस्फूर्जितमिदम्
॥ 11 ॥
अमुष्य त्वत्सेवासमधिगतसारं भुजवनं
बलात् कैलाशेSपि त्वदधिवसतौ विक्रमयत:।
अलभ्या पातालेSप्यलसचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खल:
॥ 12 ॥
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती-
मधश्चके्र बाण:परिजनविधेयस्त्रिभुवनम्।
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयो:
र्न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनति:
॥ 13 ॥
अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा-
विधेयस्याSSसीद्यस्त्रिनयनविषं संहृतवत:।
स कल्माष: कण्ठे तव न कुरुते न श्रियमहो
विकारोSपि श्लाघ्यो भुवनभयभंगव्यसनिन:
॥ 14 ॥
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विषिखा:।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मर: स्मर्तव्यात्मा नहि वशिषु पथ्य: परिभव:
॥ 15 ॥
मही पादाघाताद् व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम्।
मुहुर्द्यौर्दौस्थ्यं या त्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता
॥ 16 ॥
वियद्व्यापी तारागणगुणितफेनोद्गमरुचि:
प्रवाहो वारां य: पृषतलघुदृष्ट: शिरसि ते।
जगद् द्वीपाकारं जलधिवलयं तेन कृतमि-
त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपु:
॥ 17 ॥
रथ: क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथांगे चन्द्रार्कौ रथचरणपाणि: शर इति।
दिधक्षोस्ते कोSयं त्रिपुरतृणमाडम्बरविधि-
र्विधेयै: क्रीड़न्त्यो न खलु परतंत्रा: प्रभुधिय:
॥ 18 ॥
हरिस्ते साहस्रं कमलबलिमाधाय पदयो-
र्यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम्।
गतो भक्त्युद्रेक: परिणतिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम्
॥ 19 ॥
क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं
श्रुतौ श्रद्धाम् बद्ध्वा दृढपरिकर: कर्मसु जन:
॥ 20 ॥
क्रियादक्षो दक्ष: क्रतुपतिरधीशस्तनुभृता-
मृषीणामात्र्विज्यं शरणद सदस्या: सुरगणा:।
क्रतुभ्रंशस्त्वत्त: क्रतुफलविधानव्यसनिनो
धु्रवं कत्र्तु: श्रद्धाविधुरमभिचाराय हि मखा:
॥ 21 ॥
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेSद्यापि त्यजति न मृगव्याधरभस:
॥ 22 ॥
स्वलावण्याशंसाधृतधनुषमहृाय तृणवत्
पुर: प्लुष्टं दृष्ट्वापुरमथन पुष्पायुधमपि।
यदि स्त्रैणं देवी यमनिरत देहार्धघटना-
दवैति त्वामद्धा बत वरद! मुग्धा युवतय:
॥ 23 ॥
श्मशानेष्वाक्रीड़ा स्मरहर पिशाचा: सहचरा-
श्चिताभस्मालेप: स्रगपि नृकरोटीपरिकर:।
अमंगल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तृणां वरद परमं मंगलमसि
॥ 24 ॥
मन: प्रत्यक्चित्ते सविधमवधायात्तमरुत:
प्रहृष्यद्रोमाण: प्रमदसलिलोत्संगितदृष:।
यदालोक्याह्लादं हृद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान्
॥ 25 ॥
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च।
परिच्छिन्नामेवं त्वयि परिणिता बिभ्रतु गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि
॥ 26 ॥
त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा-
नकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभि:
समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम्
॥ 27 ॥
भव: शर्वो रुद्र: पशुपतिरथोग्र: सहमहां-
स्तथा भीमेशानाविति यदभिधानाष्टकमिदम्।
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मै धाम्ने प्रणिहितनमस्योSस्मि भवते
॥ 28 ॥
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो
नम: क्षोदिष्ठाय स्मरहर महिष्ठाय च नम:।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो
नम: सर्वस्मै ते तदिदमिति सर्वाय च नम:
॥ 29 ॥
बहुलरजसे विश्वोत्पत्तौ भवाय नमो नम:
प्र्रबलतमसे तत्संहारे हराय नमो नम:।
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नम:
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नम:
॥ 30 ॥
कृशपरिणति चेत: क्लेशवश्यं क्व चेदं
क्व च तव गुणसीमोल्लंघिनी शश्वदृद्धि:।
इति चकितमन्दीकृत्य मां भक्तिराधात्
वरद चरणयोस्ते वाक्यपुष्पोपहारम्
॥ 31 ॥
असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा लेखनी पत्रमुर्वी।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति
॥ 32 ॥
असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले-
ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य।
सकलगुणवरिष्ठ: पुष्पदन्ताभिधानो
रुचिरमलघुवृतै: स्तोत्रमेतच्चकार
॥ 33 ॥
अहरहरनवद्यं धूर्जटे: स्तोत्रमेतत्
पठति परमभक्त्या शुद्धचित: पुमान्य:।
स भवति शिवलोके रुद्रतुल्यस्तथात्र
प्रचुरतरधनायु: पुत्रवान् कीर्तिमांश्च
॥ 34 ॥
दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिका: क्रिया:।
महिम्न: स्तवपाठस्य कलां नार्हन्ति षोडषीम्
॥ 35 ॥
आसमाप्तमिदं स्तोत्रं सर्वमीश्वरवर्णनम्।
अनौपम्यं मनोहारि पुण्यं गन्धर्वभाषितम्
॥ 36 ॥
महेशान्नापरो देवो महिम्नो नापरा स्तुति:।
अघोरान्नापरो मंत्रो नास्ति तत्त्वं गुरो: परम्
॥ 37 ॥
कुसुमदशननामा सर्वगन्धर्वराज:
शशिधरवरमौलेर्देवदेवस्य दास:।
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्
स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्न:
॥ 38 ॥
सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्य: प्रांजलिर्नान्यचेता।
व्रजति शिवसमीपं किन्नरै: स्तूयमान:
स्तवनमिदममोघं पुष्पदन्तप्रणीतम्
॥ 39 ॥
श्री पुष्प्दन्त मुख पंकजनिर्गतेन
स्तोत्रेण किल्बिषहरेण हरप्रियेण।
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेश:
॥ 40 ॥
एककालं द्विकालं वा त्रिकालं य पठेनर:।
सर्वपापविर्निमुक्तं शिवलोके महीयते
॥ 41 ॥
इत्येषा वाङ्मयी पूजा श्रीमच्छंकरपादयो:
अर्पिता तेन देवेश: प्रीयतां मे सदाशिव:।
यदक्षरं पदं भ्रष्टं मात्राहीनं च यद्भवेत्
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर!
॥ 42 ॥
हरि ॐ पूर्णमद: पूर्णमिदं पूर्णात्पूर्ण मुदच्यते
पूर्णस्य पूर्णमादाय पूर्ण मेवाSव षिष्यते
ॐ शान्ति: शान्ति: शान्ति:
------ : -------
ॐ महादेव शिवशंकर शम्भो उमाकान्त हर त्रिपुरारे।
मृत्यूंजय वृषभध्वज शूलिन गंगाधर मृडमदनारे॥
हर शिव शंकर गौरीशं वन्दे गंगाधरमीषम्।
रुद्रं पशुपति मीशानं कलये काशीपुरीनाथम्॥
जय शम्भो जय शम्भो शिव गौरीशंकर जय शम्भो।
जय शम्भो जय शम्भो शिव गौरीशंकर जय शम्भो॥
ॐ नम: पार्वती पतये हर हर महादेव शम्भो
॥ इति श्री महिम्न स्तोत्र संपूर्णम् ॥
PrevNext