भजन & स्तुति
॥ श्री बिल्वाष्टकम् ॥
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुतम्।
त्रिजन्मपापसंहारमेकबिल्व शिवार्पणम्
॥1॥
त्रिशाखैर्बिल्वपत्रैश्च अच्छिद्रै: कोमलैस्तथा।
शिवपूजां करिष्यामि एकबिल्वं शिवार्पणम्
॥2॥
अखण्डबिल्वपत्रैण पूजितं नन्दिकेश्वरम्।
शुध्यते सर्वपापेभ्य एकबिल्वं शिवार्पणम्
॥3॥
शालिग्रामशिलामेकां विप्राणा जातु अर्पयेत्।
सोमयज्ञमहादानमेकबिल्व शिवार्पणम्
॥4॥
दन्तिकोटिसहस्राणि अश्वमेधशतानि च।
कोटिकन्यामहादानमेकबिल्वं शिवार्पणम्
॥5॥
लक्ष्म्याश्च स्तन उत्पन्नं महादेव सदाप्रियम्।
बिल्ववृक्षं प्रयच्छामि एकबिल्वं शिवार्पणम्
॥6॥
दर्शनं बिल्ववृक्षस्य स्पर्षनं पापनाशनम्।
अघोरपापसंहारमेकबिल्वं शिवार्पणम्
॥7॥
मूलतो ब्रह्मरुपाय मध्यतो विष्णुरुपिणे।
अग्रत: शिवरुपाय एकबिल्वं शिवार्पणम्
॥8॥
बिल्वाष्टकमिदं पुण्यं य: पठे शिवसन्निधो।
सर्वपापविनिर्मुक्त: शिवलोकमवाप्नुयात्
------ : -------
PrevNext